ऋग्वेदीया ऐतरेयोपनिषत्
अग्निर्वाग्भूत्वा मुखं प्राविशत् वायुः प्राणो भूत्वा नासिके प्राविशत्
आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशत् दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन् ओषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशन्
चन्द्रमा मनो भूत्वा हृदयं प्राविशत् मृत्युरपानो भूत्वा नाभिं प्राविशत्
आपो रेतो भूत्वा शिश्नं प्राविशन् ॥४॥
तथास्तु इत्यनुज्ञां प्रतिलभ्य ईश्वरस्य, नगर्यामिव बलाधिकृतादयः अग्निः वागभिमानी वागेव भूत्वा स्वयोनिं मुखं प्राविशत् तथा उक्तार्थमन्यत् । वायुर्नासिके, आदित्योऽक्षिणी, दिशः कर्णौ, ओषधिवनस्पतयः त्वचम् , चन्द्रमा हृदयम् , मृत्युर्नाभिम् , आपः शिश्नम् , प्राविशन् ॥४॥

© 2023 KKP APP. All rights reserved | Design by SMDS