ऋग्वेदीया ऐतरेयोपनिषत्
स एतमेव सीमानं विदार्य एतया द्वारा प्रापद्यत । सैषा विदृतिर्नाम द्वाः तदेतन्नान्दनम् । तस्य त्रय आवसथाः त्रयः स्वप्नाः अयमावसथोऽयमावसथोऽयमावसथ इति ॥१२॥
एवमीक्षित्वा न तावत् मद्भृत्यस्य प्राणस्य मम सर्वार्थाधिकृतस्य प्रवेशमार्गेण प्रपदाभ्याम् अधः प्रपद्ये । किं तर्हि, पारिशेष्यात् अस्य मूर्धानं विदार्य प्रपद्ये इति लोक इव ईक्षितकारी य स्रष्टा ईश्वरः, स एतमेव मूर्धसीमानं केशविभागावसानं विदार्य च्छिद्रं कृत्वा एतया द्वारा मार्गेण इमं कार्यकारणसङ्घातं प्रापद्यत प्रविवेश ॥
सेयं हि प्रसिद्धा द्वाः, मूर्ध्नि तैलादिधारणकाले अन्तः तद्रसादिसंवेदनात् । सैषा विदृतिः विदारितत्वात् विदृतिर्नाम प्रसिद्धा द्वाः । इतराणि तु श्रोत्रादिद्वाराणि भृत्यादिस्थानीय-साधारणमार्गत्वात् न समृद्धीनि न आनन्दहेतूनि । इदं तु द्वारं परमेश्वरस्यैव केवलस्य इति । तदेतत् नान्दनं नन्दनमेव । नान्दनमिति दैर्घ्यं छान्दसम् । नन्दति अनेन द्वारेण गत्वा परस्मिन्ब्रह्मणि इति ॥
तस्य एवं सृष्ट्वा प्रविष्टस्यानेन जीवेन आत्मना राज्ञ इव पुरम् , त्रय आवसथाः — जागरितकाले इन्द्रियस्थानं दक्षिणं चक्षुः, स्वप्नकाले अन्तर्मनः, सुषुप्तिकाले हृदयाकाश इत्येते ; वक्ष्यमाणा वा त्रय आवसथाः — पितृशरीरं मातृगर्भाशयः स्वं च शरीरमिति । त्रयः स्वप्ना जाग्रत्स्वप्नसुषुप्त्याख्याः । ननु जागरितं प्रबोधरूपत्वात् न स्वप्नः । नैवम् ; स्वप्न एव । कथम् ? परमार्थस्वात्मप्रबोधाभावात् स्वप्नवत् असद्वस्तुदर्शनाच्च । अयमेव आवसथः चक्षुर्दक्षिणं प्रथमः । मनः अन्तरं द्वितीयः । हृदयाकाशस्तृतीयः । अयमावसथः इत्युक्तानुकीर्तनमेव । तेषु ह्ययमावसथेषु पर्यायेण आत्मभावेन वर्तमानः अविद्यया दीर्घकालं गाढं प्रसुप्तः स्वाभाविक्या, न प्रबुध्यते अनेकशतसहस्र-अनर्थसंनिपादज-दुःखमुद्गराभिघातानुभवैरपि ॥१२॥

© 2023 KKP APP. All rights reserved | Design by SMDS