ऋग्वेदीया ऐतरेयोपनिषत्
स ईक्षत कथं न्विदं मदृते स्यादिति स ईक्षत कतरेण प्रपद्या इति स ईक्षत यदि वाचा अभिव्याहृतं यदि प्राणेन अभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेन अभ्यपानितं यदि शिश्नेन विसृष्टम् अथ कोऽहमिति ॥११॥
सः एवं लोक-लोकपालसङ्घातस्थितिम् अन्ननिमित्तां कृत्वा पुरपौर-तत्पालयितृस्थितिसमां स्वामी इव ईक्षत — कथं नु केन प्रकारेण नु इति वितर्कयन् , इदं मदृते मामन्तरेण पुरस्वामिनम् ; यदिदं कार्यकरणसङ्घातकार्यं वक्ष्यमाणं कथं नु खलु मामन्तरेण स्यात् परार्थं सत् । ’यदि वाचा अभिव्याहृतम्’ इत्यादि केवलमेव वाग्व्यवहरणादि, तन्निरर्थकं न कथञ्चन भवेत् बलिः तुत्यादिवत् । पौरवन्द्यादिभिः प्रयुज्यमानं स्वाम्यर्थं सत् स्वामिनमन्तरेण असत्येव स्वामिनि, तद्वत् । तस्मात् मया परेण स्वामिना अधिष्ठात्रा कृताकृतफलसाक्षिभूतेन भोक्त्रा भवितव्यं पुरस्येव राज्ञा ॥
यदि नाम एतत्संहतकार्यस्य परार्थत्वम् , परार्थिनं मां चेतनं त्रातारमन्तरेण भवेत् , पुरपौरकार्यमिव तत्स्वामिनम् । अथ कोऽहं किंस्वरूपः कस्य वा स्वामी ? यद्यहं कार्यकरणसङ्घातम् अनुप्रविश्य वागाद्यभिव्याहृतादिफलं नोपलभेय राजा इव पुरमाविश्य अधिकृतपुरुषकृताकृतादिलक्षणम् , न कश्चिन्माम् अयं सन् एवंरूपश्च इत्यधिगच्छेत् विचारयेत् । विपर्यये तु, योऽयं वागाद्यभिव्याहृतादि इदमिति वेद, स सन् वेदनरूपश्च इत्यधिगन्तव्योऽहं स्याम् , यदर्थमिदं संहतानां वागादीनामभिव्याहृतादि । यथा स्तम्भकुड्यादीनां प्रासादादिसंहतानां स्वावयवैरसंहतपरार्थत्वम् , तद्वदिति ॥ एवमीक्षित्वा अतः ’कतरेण प्रपद्या’ इति । प्रपदं च मूर्धा च अस्य सङ्घातस्य प्रवेशमार्गौ ; अनयोः कतरेण मार्गेण इदं कार्यकरणसङ्घातलक्षणं पुरं प्रपद्यै प्रपद्ये इति ॥११॥

© 2023 KKP APP. All rights reserved | Design by SMDS