ऋग्वेदीया ऐतरेयोपनिषत्
सोऽपोऽभ्यतपत्ताभ्योऽभितप्ताभ्यो मूर्तिरजायत ।
या वै सा मूर्तिरजायतान्नं वै तत् ॥२॥
सः ईश्वरः अन्नं सिसृक्षुः ता एव पूर्वोक्ता अपः उद्दिश्य अभ्यतपत् । ताभ्यः अभितप्ताभ्यः उपादानभूताभ्यः मूर्तिः घनरूपं धारणसमर्थं चराचरलक्षणम् अजायत उत्पन्नम् । अन्नं वै तत् मूर्तिरूपं या वै सा मूर्तिरजायत ॥२॥