भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

ऋग्वेदीया ऐतरेयोपनिषत्

ताभ्यः पुरुषमानयत् ता अब्रुवन् सु कृतं बतेति पुरुषो वाव सु कृतम् ।
ता अब्रवीत् यथायतनं प्रविशत इति ॥३॥

सर्वप्रत्याख्याने ताभ्यः पुरुषमानयत् स्वयोनिभूतम् । ताः स्वयोनिं पुरुषं दृष्ट्वा अखिन्नाः सत्यः सु कृतं शोभनं कृतम् इदमधिष्ठानं बत इति अब्रुवन् । तस्मात्पुरुषो वाव, पुरुष एव सुकृतम् , सर्वपुण्यकर्महेतुत्वात् ; स्वयं वा स्वेनैव आत्मना स्वमायाभिः कृतत्वात् सुकृतमित्युच्यते । ताः देवताः ईश्वरः अब्रवीत् इष्टम् आसाम् इदमधिष्ठानम् इति मत्वा — सर्वे हि स्वयोनिषु रमन्ते ; अतः यथायतनं यस्य यत् वदनादिक्रियायोग्यम् आयतनम् , तत् प्रविशत इति ॥३॥

© 2023 KKP APP. All rights reserved | Design by SMDS