भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

ऋग्वेदीया ऐतरेयोपनिषत्

ताभ्यो गामानयत् ता अब्रुवन् न वै नोऽयमलमिति ।
ताभ्योऽश्वमानयत् ता अब्रुवन् न वै नोऽयमलमिति ॥ २ ॥

एवमुक्त ईश्वरः ताभ्यः देवताभ्यः गां गवाकृतिविशिष्टं पिण्डं ताभ्य एव अद्भ्यः पूर्ववत् पिण्डं समुद्धृत्य मूर्छयित्वा आनयत् दर्शितवान् । ताः पुनः गवाकृतिं दृष्ट्वा अब्रुवन् । न वै नः अस्मदर्थम् अधिष्ठाय अन्नम् अत्तुम् अयं पिण्डः अलं न वै । अलं पर्याप्तः । अत्तुं न योग्य इत्यर्थः । गवि प्रत्याख्याते तथैव ताभ्यः अश्वम् आनयत् । ता अब्रुवन् — न वै नोऽयमलमिति, पूर्ववत् ॥२॥

© 2023 KKP APP. All rights reserved | Design by SMDS