ऋग्वेदीया ऐतरेयोपनिषत्
अथ द्वितीयः खण्डः
ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतन् तमशनायापिपासाभ्यामन्ववार्जत्
ता एनमब्रुवन् आयतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्नमदामेति ॥१॥
ता एता अग्न्यादयो देवताः लोकपालत्वेन सङ्कल्प्य सृष्टा ईश्वरेण अस्मिन् संसारार्णवे संसारसमुद्रे महति अविद्याकामकर्मप्रभवदुःखोदके तीव्ररोगजरामृत्युमहाग्राहे अनादौ अनन्ते अपारे निरालम्बे विषयेन्द्रियजनित-सुखलवलक्षणविश्रामे पञ्चेन्द्रियार्थतृण्मारुतविक्षोभोत्थित-अनर्थशतमहोर्मौ महारौरवाद्यनेकनिरयगत-हाहा-इत्यादिकूजित-आक्रोशनोद्भूतमहारवे सत्य-आर्जवदानदया-अहिंसा-शमदमधृत्याद्यात्मगुणपाथेयपूर्णज्ञानोडुपे सत्सङ्गसर्वत्यागमार्गे मोक्षतीरे एतस्मिन् महत्यर्णवे प्रापतन् पतितवत्यः ॥
तस्मात् अग्न्यादिदेवताप्ययलक्षणापि या गतिर्व्याख्याता ज्ञानकर्मसमुच्चयानुष्ठानफलभूता, सापि नालं संसारदुःखोपशमाय इत्ययं विवक्षितोऽर्थोऽत्र । यत एवम् , तस्मादेवं विदित्वा, परं ब्रह्म, आत्मा आत्मनः सर्वभूतानां च, यो वक्ष्यमाणविशेषणः प्रकृतश्च जगदुत्पत्तिस्थितिसंहारहेतुत्वेन, स सर्वसंसारदुःखोपशमनाय वेदितव्यः । तस्मात् ‘एष पन्था एतत्कर्म एतद्ब्रह्म एतत्सत्यम्’ (ऐ. उ. २ । १ । १) यदेतत्परब्रह्मात्मज्ञानम्, ‘नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८)(श्वे. उ. ६ । १५) इति मन्त्रवर्णात् । तं स्थान-करण-देवतोत्पत्तिबीजभूतं पुरुषं प्रथमोत्पादितं पिण्डम् आत्मानम् अशनायापिपासाभ्याम् अन्ववार्जत् अनुगमितवान् संयोजितवानित्यर्थः । तस्य कारणभूतस्य अशनायादिदोषवत्त्वात् तत्कार्यभूतानामपि देवतानाम् अशनायादिमत्त्वम् । ताः ततः अशनायापिपासाभ्यां पीड्यमानाः एनं पितामहं स्रष्टारम् अब्रुवन् उक्तवत्यः । आयतनम् अधिष्ठानं नः अस्मभ्यं प्रजानीहि विधत्स्व, यस्मिन् आयतने प्रतिष्ठिताः समर्थाः सत्यः अन्नम् अदाम भक्षयाम इति ॥१॥

© 2023 KKP APP. All rights reserved | Design by SMDS