भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

ऋग्वेदीया ऐतरेयोपनिषत्

एवं लब्धाधिष्ठानासु देवतासु निरधिष्ठाने सत्यौ-

तमशनायापिपासे अब्रूताम् आवाभ्यामभिप्रजानीहीति । ते अब्रवीत् एतास्वेव वां देवतासु आभजामि एतासु भागिन्यौ करोमीति । तस्माद्यस्यै कस्यै च देवतायै हविर्गृह्यते भागिन्यावेव अस्यामशनायापिपासे भवतः ॥५॥

अशनायापिपासे तम् ईश्वरम् अब्रूताम् उक्तवत्यौ — आवाभ्याम् अधिष्ठानम् अभिप्रजानीहि चिन्तय विधत्स्व इत्यर्थः । स ईश्वर एवमुक्तः ते अशनायापिपासे अब्रवीत् । न हि युवयोः भावरूपत्वात् चेतनावद्वस्त्वनाश्रित्य अन्नात्तृत्वं सम्भवति । तस्मात् एतास्वेव अग्न्याद्यासु वां युवां देवतासु अध्यात्म-अधिदेवतासु आभजामि वृत्तिसंविभागेन अनुगृह्णामि । एतासु भागिन्यौ यद्देवत्यो यो भागो हविरादिलक्षणः स्यात् , तस्याः तेनैव भागेन भागिन्यौ भागवत्यौ वां करोमीति । सृष्ट्यादौ ईश्वर एवं व्यदधात् यस्मात् , तस्मात् इदानीमपि यस्यै कस्यै च देवतायै देवताया अर्थाय हविर्गृह्यते चरुपुरोडाशादिलक्षणं भागिन्यौ एव भागवत्यावेव अस्यां देवतायाम् अशनायापिपासे भवतः ॥५॥

इति श्रीमच्छङ्करभगवतः कृतौ ऐतरेयोपनिषद्भाष्ये
प्रथमाध्याये द्वितीयः खण्डः

© 2023 KKP APP. All rights reserved | Design by SMDS