भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥२॥

स तु न एकपुरवर्ती एव आत्मा किं तर्हि सर्वपुरवर्ती । कथम् ? हंसः हन्ति गच्छतीति । शुचिषत् शुचौ दिवि आदित्यात्मना सीदतीति । वसुः वासयति सर्वानिति । वाय्वात्मना अन्तरिक्षे सीदतीति अन्तरिक्षसत् । होता अग्निः, ‘अग्निर्वै होता’ इति श्रुतेः । वेद्यां पृथिव्यां सीदतीति वेदिषत्, ‘इयं वेदिः परोऽन्तः पृथिव्याः’ (ऋ. मं. १ । २२ । १६४ । ३५) इति मन्त्रवर्णात् । अतिथिः सोमः सन् दुरोणे कलशे सीदतीति दुरोणसत् । ब्राह्मणः अतिथिरूपेण वा दुरोणेषु गृहेषु सीदतीति दुरोणसत् । नृषत् नृषु मनुष्येषु सीदतीति नृषत् । वरसत् वरेषु देवेषु सीदतीति वरसत् । ऋतसत् ऋतं सत्यं यज्ञो वा, तस्मिन् सीदतीति ऋतसत् । व्योमसत् व्योम्नि आकाशे सीदतीति व्योमसत् । अब्जाः अप्सु शङ्खशुक्तिमकरादिरुपेण जायत इति अब्जाः । गोजाः गवि पृथिव्यां व्रीहियवादिरूपेण जायत इति गोजाः । ऋतजाः यज्ञाङ्गरूपेण जायत इति ऋतजाः । अद्रिजाः पर्वतेभ्यो नद्यादिरूपेण जायत इति अद्रिजाः । सर्वात्मापि सन् ऋतम् अवितथस्वभाव एव । बृहत् महान्, सर्वकारणत्वात् । यदापि आदित्य एव मन्त्रेणोच्यते तदापि आत्मस्वरूपत्वम् आदित्यस्य अङ्गीकृतमिति ब्राह्मणव्याख्यानेऽपि अविरोधः । सर्वथापि एक एवात्मा जगतः, न आत्मभेदः इति मन्त्रार्थः ॥२॥

© 2023 KKP APP. All rights reserved | Design by SMDS