भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथ कृष्णयजुर्वेदीया काठकोपनिषत्

नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् ।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥१६॥

प्रस्तुतविज्ञानस्तुत्यर्थम् आह श्रुतिः — नाचिकेतं नचिकेतसा प्राप्तं नाचिकेतं मृत्युना प्रोक्तं मृत्युप्रोक्तम् इदम् आख्यानम् उपाख्यानं वल्लीत्रयलक्षणं सनातनं चिरन्तनं वैदिकत्वात् उक्त्वा ब्राह्मणेभ्यः, श्रुत्वा च आचार्येभ्यः मेधावी ब्रह्मैव लोकः ब्रह्मलोकः तस्मिन् ब्रह्मलोके महीयते आत्मभूतः उपास्यो भवति इत्यभिप्रायः ॥१६॥

© 2023 KKP APP. All rights reserved | Design by SMDS