अथ कृष्णयजुर्वेदीया काठकोपनिषत्
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥१४॥
एवं पुरुषे आत्मनि सर्वं प्रविलाप्य नामरूपकर्मत्रयं यन्मिथ्याज्ञानविजृम्भितं क्रियाकारकफललक्षणं स्वात्मयाथात्म्यज्ञानेन मरीच्युदक-रज्जुसर्प-गगनमलानीव मरीचि-रज्जु-गगनस्वरूपदर्शनेनैव स्वस्थः प्रशान्तः कृतकृत्यो भवति यतः, अतः तद्दर्शनार्थम् अनाद्यविद्याप्रसुप्ताः उत्तिष्ठत हे जन्तवः, आत्मज्ञानाभिमुखा भवत; जाग्रत अज्ञाननिद्राया घोररूपायाः सर्वानर्थबीजभूतायाः क्षयं कुरुत । कथम् ? प्राप्य उपगम्य वरान् प्रकृष्टान् आचार्यान् तत्त्वविदः, तदुपदिष्टं सर्वान्तरमात्मानम् अहमस्मि इति निबोधत अवगच्छत ; न हि उपेक्षितव्यम् इति श्रुतिः अनुकम्पया आह मातृवत्, अतिसूक्ष्मबुद्धिविषयत्वात् ज्ञेयस्य । किमिव सूक्ष्मबुद्धिरिति, उच्यते—
क्षुरस्य धारा अग्रं निशिता तीक्ष्णीकृता दुरत्यया दुःखेन अत्ययो यस्याः सा दुरत्यया । यथा सा पद्भ्यां दुर्गमनीया तथा दुर्गं दुःसम्पाद्यमित्येतत्; पथः पन्थानं तत् तं ज्ञानलक्षणं मार्गं कवयः मेधाविनो वदन्ति । ज्ञेयस्य अतिसूक्ष्मत्वात् तद्विषयस्य ज्ञानमार्गस्य दुःसम्पाद्यत्वं वदन्तीत्यभिप्रायः ॥१४॥

© 2023 KKP APP. All rights reserved | Design by SMDS