अथर्ववेदीया प्रश्नोपनिषद्
अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं दृष्टमनुपश्यति
श्रुतं श्रुतमेव अर्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः
प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं च अनुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥५॥
एवं विदुषः श्रोत्राद्युपरमकालादारभ्य यावत्सुप्तोत्थितो भवति तावत् सर्वयागफलानुभव एव, न अविदुषामिव अनर्थायेति विद्वत्ता स्तूयते । न हि विदुष एव श्रोत्रादीनि स्वपन्ति, प्राणाग्नयो वा जाग्रति । जाग्रत्स्वप्नयोः मनः स्वातन्त्र्यमनुभवत् अहरहः सुषुप्तं वा प्रतिपद्यते । समानं हि सर्वप्राणिनां पर्यायेण जाग्रत्स्वप्नसुषुप्तगमनम् ; अतो विद्वत्तास्तुतिरेव इयमुपपद्यते । यत्पृष्टं कतर एष देवः स्वप्नान् पश्यतीति ; तदाह — अत्र उपरतेषु श्रोत्रादिषु देहरक्षायै जाग्रत्सु प्राणादिवायुषु प्राक्सुषुप्तिप्रतिपत्तेः एतस्मिन्नन्तराल एषः देवः अर्करश्मिवत् स्वात्मनि संहृतश्रोत्रादिकरणः स्वप्ने महिमानं विभूतिं विषयविषयिलक्षणम् अनेकात्मभावगमनम् अनुभवति प्रतिपद्यते ॥
ननु महिमानुभवने करणं मनः अनुभवितुः ; तत्कथं स्वातन्त्र्येण अनुभवति इत्युच्यते ? स्वतन्त्र हि क्षेत्रज्ञः । नैष दोषः । क्षेत्रज्ञस्य स्वातन्त्र्यस्य मनउपाधिकृतत्वात् । न हि क्षेत्रज्ञः परमार्थतः स्वतः स्वपिति जागर्ति वा । मनउपाधिकृतमेव तस्य जागरणं स्वप्नश्च । उक्तं वाजसनेयके ‘सधीः स्वप्नो भूत्वा’ (बृ. मा. ४ । ३ । ७) ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इत्यादि । तस्मात् मनसो विभूत्यनुभवे स्वातन्त्र्यवचनं न्याय्यमेव ॥
मनउपाधिसहितत्वे स्वप्नकाले क्षेत्रज्ञस्य स्वयञ्ज्योतिष्ट्वं बाध्येत इति केचित् । तन्न । श्रुत्यर्थ- अपरिज्ञानकृता भ्रान्तिस्तेषाम् । यस्मात् स्वयञ्ज्योतिष्ट्वादिव्यवहारोऽपि आ मोक्षान्तः सर्वोऽप्यविद्याविषय एव मनआद्युपाधिजनितः ; ‘यत्र वा अन्यदिव स्यात् तत्र अन्यः अन्यत् पशयेत् मात्रासंसर्गस्तु अस्य भवति’ (बृ. उ. ४ । ३ । ३१), (बृ. मा. ४ । ५ । १४) ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिश्रुतिभ्यः । अतो मन्दब्रह्मविदामेव इयमाशङ्का, न त् एकात्मविदाम् ।
ननु एवं सति ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ (बृ. उ. ४ । ३ । १४) इति विशेषणम् अनर्थकं भवति । अत्रोच्यते । अत्यल्पमिदमुच्यते ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ (बृ. उ. २ । १ । १७) इति अन्तर्हृदयपरिच्छेदकरणे सुतरां स्वयञ्ज्योतिष्ट्वं बाध्येत । सत्यमेवम् ; अयं दोषो यद्यपि स्यात् स्वप्ने केवलतया स्वयञ्ज्योतिष्ट्वेन अर्धं तावदपनीतं भारस्य इति चेत् , न ; तत्रापि ‘पुरीतति नाडीषु शेते’ इति श्रुतेः पुरीतन्नाडीसम्बन्धादत्रापि पुरुषस्य स्वयञ्ज्योतिष्ट्वेनार्धभारापनयाभिप्रायो मृषैव ॥
कथं तर्हि ‘अत्रायं पुरुषः स्वयञ्ज्योतिः’ (बृ. उ. ४ । ३ । १४) इति ? अन्यशाखात्वादनपेक्षा सा श्रुतिरिति चेत् , न ; अर्थैकत्वस्येष्टत्वात् । एको हि आत्मा सर्ववेदान्तानाम् अर्थो विजिज्ञापयिषितो बुभुत्सितश्च । तस्माद्युक्ता स्वप्न आत्मनः स्वयञ्ज्योतिष्ट्वोपपत्तिः वक्तुम् , श्रुतेर्यथार्थतत्त्वप्रकाशकत्वात् ॥
एवं तर्हि शृणु श्रुत्यर्थं, हित्वा सर्वमभिमानम् ; न हि अभिमानेन वर्षशतेनापि श्रुत्यर्थो ज्ञातुं शक्यते सर्वैः पण्डितंमन्यैः । यथा हृदयाकाशे पुरीतति नाडीषु च स्वपतः तत्सम्बन्धाभावात् ततो विविच्य दर्शयितुं शक्यत इति आत्मनः स्वयञ्ज्योतिष्ट्वं न बाध्यते । एवं मनसि अविद्याकामकर्मनिमित्तोद्भूतवासनावति कर्मनिमित्ता वासना अविद्यया अन्यद्वस्त्वन्तरमिव पश्यतः सर्वकार्यकरणेभ्यः प्रविविक्तस्य द्रष्टुः वासनाभ्यो दृश्यरूपाभ्यः अन्यत्वेन स्वयञ्ज्योतिष्ट्वं सुदर्पितेनापि तार्किकेण केन वारयितुं शक्यते ? तस्मात् साधूक्तं मनसि प्रलीनेषु करणेषु अप्रलीने च मनसि मनोमयः स्वप्नान्पश्यतीति ॥
कथं महिमानमनुभवतीति उच्यते । यन्मित्रं पुत्रादि वा पूर्वं दृष्टं तद्वासनावासितः पुत्रमित्रादिवासनासमुद्भूतं पुत्रं मित्रमिव वा अविद्यया पश्यति इत्येवं मन्यते । शृणोति तथा श्रुतमर्थं तद्वासनया अनुशृणोतीव । देशदिगन्तरैश्च देशान्तरैः दिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः तत्प्रति अनुभवतीव अविद्यया । तथा दृष्टं च अस्मिञ्जन्मनि अदृष्टं च जन्मान्तरदृष्टम् इत्यर्थः । अत्यन्त अदृष्टे वासनानुपपत्तेः । एवं श्रुतं च अश्रुतं च अनुभूतं च अस्मिञ्जन्मनि केवलेन मनसा अननुभूतं च मनसा एव जन्मान्तरे अनुभूतमित्यर्थः । सच्च परमार्थोदकादि । असच्च मरीच्युदकादि । किं बहुना, उक्तानुक्तं सर्वं पश्यति सर्वः पश्यति सर्वमनोवासनोपाधिः सन् एवं सर्वकरणात्मा मनोदेवः स्वप्नान् पश्यति ॥५॥

© 2023 KKP APP. All rights reserved | Design by SMDS