भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

अहोरात्रो वै प्रजापतिः तस्य अहरेव प्राणो रात्रिरेव रयिः
प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते
ब्रह्मचर्यमेव तद् यद्रात्रौ रत्या संयुज्यन्ते ॥१३॥

सोऽपि मासात्मा प्रजापतिः स्वावयवे अहोरात्रे परिसमाप्यते । अहोरात्रो वै प्रजापतिः पूर्ववत् । तस्यापि अहरेव प्राणः अत्ता अग्निः रात्रिरेव रयिः पूर्ववदेव । प्राणम् अहरात्मानं वै एते प्रस्कन्दन्ति निर्गमयन्ति शोषयन्ति वा स्वात्मनो विच्छिद्य अपनयन्ति । के ? ये दिवा अहनि रत्या रतिकारणभूतया सह स्त्रिया संयुज्यन्ते मैथुनमाचरन्ति मूढाः । यत एवं तस्मात् तन्न कर्तव्यमिति प्रतिषेधः प्रासङ्गिकः । यत् रात्रौ संयुज्यन्ते रत्या ऋतौ ब्रह्मचर्यमेव तदिति प्रशस्तत्वात् रात्रौ भार्यागमनं कर्तव्यमित्ययमपि प्रासङ्गिको विधिः ॥१३॥

© 2023 KKP APP. All rights reserved | Design by SMDS