अथर्ववेदीया प्रश्नोपनिषद्
अथ कबन्धी कात्यायन उपेत्य पप्रच्छ
भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥३॥
अथ संवत्सरादूर्ध्वं कबन्धी कात्यायनः उपेत्य उपगम्य पप्रच्छ पृष्टवान् — हे भगवन् , कुतः कस्मात् ह वै इमाः ब्राह्मणाद्याः प्रजाः प्रजायन्ते उत्पद्यन्ते इति । अपरविद्या-कर्मणोः समुच्चितयोः यत्कार्यं या गतिः तद्वक्तव्यमिति तदर्थोऽयं प्रश्नः ॥३॥