भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

अथ पञ्चमः प्रश्नः

अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति ॥१॥

अथ ह एनं शैब्यः सत्यकामः पप्रच्छ । अथेदानीं परापरब्रह्मप्राप्तिसाधनत्वेन ओङ्कारस्य उपासनविधित्सया प्रश्न आरभ्यते । सः यः कश्चित् ह वै भगवन् , मनुष्येषु मनुष्याणां मध्ये तत् अद्भुतमिव प्रायणान्तं मरणान्तं यावज्जीवमित्येतत् ; ओङ्कारम् अभिध्यायीत आभिमुख्येन चिन्तयेत् । बाह्यविषयेभ्य उपसंहृतकरणः समाहितचित्तो भक्त्यावेशितब्रह्मभावे ओङ्कारे आत्मप्रत्ययसन्तान-अविच्छेदो भिन्नजातीयप्रत्ययान्तराखिलीकृतो निवातस्थदीपशिखासमः अभिध्यानशब्दार्थः । सत्य-ब्रह्मचर्य-अहिंसा अपरिग्रह-त्याग-संन्यास-शौच-सन्तोष-अमायावित्वादि-अनेकयमनियमानुगृहीतः सः एवं यावज्जीवव्रतधारणः, कतमं वाव, अनेके हि ज्ञानकर्मभिः जेतव्या लोकाः तिष्ठन्ति ; तेषु तेन ओङ्काराभिध्यानेन कतमं सः लोकं जयतीति ॥१॥

© 2023 KKP APP. All rights reserved | Design by SMDS