भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

अथ यदि द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥४॥

अथ पुनः यदि द्विमात्राविभागज्ञो द्विमात्रेण विशिष्टम् ओङ्कारमभिध्यायीत स्वप्नात्मके मनसि मननीये यजुर्मये सौमदैवत्ये सम्पद्यते एकाग्रतया आत्मभावं गच्छति, स एवं सम्पन्नो मृतः अन्तरिक्षम् अन्तरिक्षाधारं द्वितीयमात्रारूपं द्वितीयमात्रारूपैरेव यजुर्भिः उन्नीयते सोमलोकं सौम्यं जन्मप्रापयन्ति तं यजूंषि इत्यर्थः । स तत्र विभूतिमनुभूय सोमलोके मनुष्यलोकं प्रति पुनरावर्तते ॥४॥

© 2023 KKP APP. All rights reserved | Design by SMDS