भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापम्
उभाभ्यामेव मनुष्यलोकम् ॥७॥

अथ या तु तत्र एकशतानां नाडीनां मध्ये ऊर्ध्वगा सुषुम्नाख्या नाडी, तया एकया ऊर्ध्वः सन् उदानः वायुः आपादतलमस्तकवृत्तिः सञ्चरन् पुण्येन कर्मणा शास्त्रविहितेन पुण्यं लोकं देवादिस्थानलक्षणं नयति प्रापयति । पापेन तद्विपरीतेन पापं नरकं तिर्यग्योन्यादिलक्षणम् । उभाभ्यां समप्रधानाभ्यां पुण्यपापाभ्यामेव मनुष्यलोकं नयति इत्यनुवर्तते ॥७॥

© 2023 KKP APP. All rights reserved | Design by SMDS