भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

स यदि एकमात्रमभिध्यायीत स तेनैव संवेदितः तूर्णमेव जगत्यामभिसम्पद्यते । तम् ऋचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥३॥

स यद्यपि ओङ्कारस्य सकलमात्राविभागज्ञो न भवति, तथापि ओङ्काराभिध्यानप्रभावात् विशिष्टामेव गतिं गच्छति ; एतदेकदेशज्ञानवैगुण्यतया ओङ्कारशरणः कर्मज्ञान-उभयभ्रष्टो न दुर्गतिं गच्छति ; किं तर्हि, यदि एवम् ओङ्कारमेव एकमात्राविभागज्ञ एव केवलः अभिध्यायीत एकमात्रं सदा ध्यायीत, स तेनैव एकमात्राविशिष्ट-ओङ्काराभिध्यानेनैव संवेदितः सम्बोधितः तूर्णं क्षिप्रमेव जगत्यां पृथिव्याम् अभिसम्पद्यते । किम् ? मनुष्यलोकम् । अनेकानि हि जन्मानि जगत्यां सम्भवन्ति । तत्र तं साधकं जगत्यां मनुष्यलोकमेव उपनयन्ते उपनिगमयन्ति ऋचः । ऋग्वेदरूपा हि ओङ्कारस्य प्रथमा एकमात्रा । तेन स तत्र मनुष्यजन्मनि द्विजाग्र्यः सन् तपसा ब्रह्मचर्येण श्रद्धया च सम्पन्नः महिमानं विभूतिम् अनुभवति न वीतश्रद्धो यथेष्टचेष्टो भवति ; योगभ्रष्टः कदाचिदपि न दुर्गतिं गच्छति ॥३॥

© 2023 KKP APP. All rights reserved | Design by SMDS