भाष्यपीयूषधारा कृष्ण‌ कमल वेदान्तपाठशाला Krishna Kamala Vedanta Pathashala

Play Audio Your browser does not support the audio tag.
>> Go Back

अथर्ववेदीया प्रश्नोपनिषद्

तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते ।
तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं
येषु सत्यं प्रतिष्ठितम् ॥१५॥

तत् तत्रैवं सति ये गृहस्थाः । ह वै इति प्रसिद्धस्मरणार्थौ निपातौ । तत् प्रजापतेः व्रतं प्रजापतिव्रतम् ऋतौ भार्यागमनं चरन्ति कुर्वन्ति, तेषां दृष्टं फलमिदम् । किम् ? ते मिथुनं पुत्रं दुहितरं च उत्पादयन्ते । अदृष्टं च फलम् इष्टापूर्तदत्तकारिणां तेषामेव एषः यः चान्द्रमसो ब्रह्मलोकः पितृयाणलक्षणः येषां तपः स्नातकव्रतादि ब्रह्मचर्यम् ऋतोरन्यत्र मैथुन-असमाचरणं येषु च सत्यम् अनृतवर्जनं प्रतिष्ठितम् अव्यभिचारितया वर्तते नित्यमेव ॥१५॥

© 2023 KKP APP. All rights reserved | Design by SMDS