अथर्ववेदीया प्रश्नोपनिषद्
तान् ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान्पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥२॥
तान् एवम् उपगतान् सः ह किल ऋषिः उवाच भूयः पुनरेव — यद्यपि यूयं पूर्वं तपस्विन एव, तथापि इह तपसा इन्द्रियसंयमेन विशेषतो ब्रह्मचर्येण श्रद्धया च आस्तिक्यबुद्ध्या आदरवन्तः संवत्सरं कालं संवत्स्यथ सम्यग्गुरुशुश्रूषापराः सन्तो वत्स्यथ । ततः यथाकामं यो यस्य कामः तम् अनतिक्रम्य यद्विषये यस्य जिज्ञासा तद्विषयान् प्रश्नान् पृच्छत । यदि तद्युष्मत्पृष्टं विज्ञास्यामः । अनुद्धतत्वप्रदर्शनार्थो ’यदि’ शब्दो न अज्ञानसंशयार्थः प्रश्ननिर्णयादवसीयते सर्वं ह वो वः पृष्टार्थं वक्ष्याम इति ॥२॥

© 2023 KKP APP. All rights reserved | Design by SMDS