अथर्ववेदीया प्रश्नोपनिषद्
तस्मै स होवाच । एतद्वै सत्यकाम परं च अपरं च ब्रह्म यदोङ्कारः । तस्माद्विद्वान् एतेनैवायतनेन एकतरमन्वेति ॥२॥
पृष्टवते तस्मै स ह उवाच पिप्पलादः — एतद्वै सत्यकाम । एतत् ब्रह्म वै परं च अपरं च ब्रह्म परं सत्यम् अक्षरं पुरुषाख्यम् अपरं च प्राणाख्यं प्रथमजं यत् तदोङ्कार एव ओङ्कारात्मकम् ओङ्कारप्रतीकत्वात् । परं हि ब्रह्म शब्दाद्युपलक्षणानर्हं सर्वधर्मविशेषवर्जितम् , अतो न शक्यम् अतीन्द्रियगोचरत्वात् केवलेन मनसा अवगाहितुम् । ओङ्कारे तु विष्ण्वादिप्रतिमास्थानीये भक्त्यावेशितब्रह्मभावे ध्यायिनां तत्प्रसीदति इत्यवगम्यते शास्त्रप्रामाण्यात् । तथा परं च ब्रह्म । तस्मात् परं च अपरं च ब्रह्म यदोङ्कारः इत्युपचर्यते । तस्मात् एवं विद्वान् एतेनैव आत्मप्राप्तिसाधनेनैव ओङ्काराभिध्यानेन एकतरं परम् अपरं वा अन्वेति ब्रह्म अनुगच्छति ; नेदिष्ठं हि आलम्बनम् ओङ्कारो ब्रह्मणः ॥२॥

© 2023 KKP APP. All rights reserved | Design by SMDS